Suggest here

वेदोत्पत्तिः अध्यायः – १

अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः – १

65 views Contributors

सहस्राक्षं गणाधीशं स्वगुरुं च सरस्वतीम्|
जनकं जनयित्रीं च शास्त्रादौ प्रणमाम्यहम्||

समस्तजनपदतिलककल्पे श्रीभादानकदेशे नगरीवरमथुरासमीपे अङ्कोलानामकं वैद्यस्थानमस्ति| यत्र सौरवंशजा ब्राह्मणाः समस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचियशःप्रसाधितदिङ्मण्डला वैद्या अभूवन्| तदन्वये गोविन्दनामा चिकित्सकशिरोमणिरभूत्, ततस्तत्पुत्रो भिषक्शिरोमुकुटमणिर्जयपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञो भरतपालः सञ्जातः, तत्पुत्रः स्वकुलनभस्तलचन्द्रमा [२] विवेकबृहस्पतिः श्रीसहपालदेवनृपतिवल्लभः श्रीडल्हणः समभूत्| तेन श्रीजेज्जटं टीकाकारं श्रीगयदासभास्करौ च पञ्जिकाकारौ श्रीमाधवब्रह्मदेवादीन् टीप्पनकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानाय निबन्धसङ्ग्रहः क्रियते| यद्यपि सुश्रुतोपरि जेज्जटादिभिष्टीका रचिताः, तथाऽपि तासां कुशाग्रीयधियामभिगम्यत्वादल्पमेधसामनुग्रहाय सुश्रुतं व्याख्यातुकामस्य मम प्रयासः सफलः|

अथातो वेदोत्पत्तिमध्यायं [1] वेदोत्पत्तिनामाध्यायं’ इति  व्याख्यास्यामः ||१||

अथातो वेदोत्पत्तिमध्यायं व्याख्यास्याम इति| ननु, कतमत् सूत्रमिदं? चतुर्विधानि हि सूत्राणि भवन्ति; तद्यथा- प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं, शिष्यसूत्रं, गुरुसूत्रं चेति| इह प्रतिसंस्कर्तृसूत्रं नास्त्येवेत्येके, अन्ये त्वस्तीति भाषन्ते, यथा च तदस्ति तथेहैव नैकट्येन कथयिष्यामः; एकीयसूत्रं यथा- ‘तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि भवन्तीत्येके भाषन्ते’(सू. अ. ४५)- इति; शिष्यसूत्रं यथा- ‘वायोः प्रकृतिभूतस्य व्यापन्नस्य च लक्षणम्| स्थानं कर्म च रोगांश्च वदस्व वदतांवर’ (नि. अ. १)- इति; गुरुसूत्रं यथा- ‘देहे विचरतस्तस्य लक्षणानि निबोध मे’ (नि. अ. १)- इति; एवं सूत्राणामनेकत्वात् कस्येदं सूत्रम्? उच्यते- गुरोरेवैतत् सूत्रं, शिष्येण ग्रन्थं चिकीर्षता लिखितम्| अन्ये तु शिष्यस्यैवेदं सूत्रमित्याहुः, स त्वात्मशिष्येषु धन्वन्तरिप्रशिष्येषु प्रतिज्ञां कृतवान्; तन्नेच्छति गयी| किमेतत् स्वकपोलकल्पितं सुश्रुतेनोक्तम्, अथवा यथैव गुरुणोदीरितमिति पृष्टः प्रतिसंस्कर्ता सुश्रुतमुखेनेदमाह- यथोवाच भगवान् धन्वन्तरिरिति| इदं प्रतिसंस्कर्तृसूत्रं, यत्र यत्र परोक्षे लिट्प्रयोगस्तत्र तत्रैव प्रतिसंस्कर्तृसूत्रं ज्ञातव्यमिति; प्रतिसंस्कर्ताऽपीह नागार्जुन एव| अथशब्दोऽनन्तरार्थ एव| अतो युष्मच्छल्यतन्त्रोपदेशकामितादनन्तरम्| वेदोत्पत्तिमिति अस्यादौ आयुःशब्दो लुप्तो ज्ञेयः; तेन, आयुर्वेदोत्पत्तिमिति| उत्पत्तिरत्राभिव्यक्तिः, न त्वभूतप्रादुर्भावः| अधीयन्तेऽस्मिन्नर्था इत्यध्यायः|

यथोवाच भगवान् धन्वन्तरिः ||२||

व्याख्यास्याम इति विर्विशेषे, आङ् अभिव्याप्तौ, व्याख्यास्यामः प्रकथयिष्यामः| अन्ये तु, अथशब्दः शिष्यप्रश्नानन्तर्ये [२] , अतःशब्दो हेत्वर्थः, यत एते शिष्याः प्रजाहितार्थमायुर्वेदं गुरुं पप्रच्छुः, अतो हेतोरित्यर्थः; अपरे तु विर्विविधप्रकारे, आङ् आभिमुख्ये, शेषं समम्| एतेनातः शल्यतन्त्रोपदेशकामितादनन्तरम्, आयुर्वेदाभिव्यक्तिमधिकृत्य कृतो योऽध्यायस्तं विशेषाभिव्याप्त्या प्रकथयिष्यामः| द्वितीयव्याख्यानपक्षेऽपीत्थं योजनीयम्| यथोवाचेति यादृगुक्तवान्| भगवान् धन्वन्तरिरिति समस्तैश्वर्यमाहात्म्ययशःश्रीकामार्थप्रयत्नैर्युक्तो ‘भगवान्’ इत्युच्यते; अन्ये तु ज्ञानातिशयवान् पुरुषातिशयो भगवान्; अपरे तु, अष्टगुणैश्वर्यवानेवात्र भगवान्| अथात इत्यादिकं प्रतिज्ञासूत्रं यद्यप्यध्यायादौ लिखितं, तथऽपि ‘वत्स सुश्रुत’ (सू. अ. १, सू. अ. १४) इत्यनन्तरं द्रष्टव्यम्; अन्ये तु ‘अध्याप्याश्च भवन्तो वत्साः’ (सू. अ. १, सू. अ. ५) इत्यनन्तरं पठन्ति, तन्नेच्छति गयी| अत्र केचिद् ‘वेदोत्पत्तिं नामाध्यायं’ इति पठन्ति||१-२||

विषय विशेषाः - ( 1 )

Leave a Reply

Your email address will not be published. Required fields are marked *

Share this Doc

अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः – १

Or copy link

    अस्मिन् पत्रे
    Scroll to Top

    Subscribe

    ×
    Cancel