Suggest here

दीर्घञ्जीवितीयोऽध्यायः

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः – सूत्र 1

47 views Contributors

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||

गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे|
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः||१||
सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः|
बुद्धिदर्पणसङ्क्रान्तं जगदध्यक्षमीक्ष्यते||२||
ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसुहुताशवेशचरकप्रभृतिभ्यो नमो [१] नमः||३||
पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः|
मनोवाक्कायदोषाणां हर्त्रेऽहिपतये [२] नमः||४||
नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी|
क्रियते चक्रदत्तेन टीकाऽऽयुर्वेददीपिका||५||
सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वो
नालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति|
व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यते
क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् [३] ||६||
इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः, तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने [४] तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि [५] सुखोपलम्भार्थं नातिसङ्क्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान्| तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधायकतया [६] श्लोकस्थानमेवाग्रे वक्तव्यममन्यत| वक्ष्यति हि- “श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम्| चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः” (सू. अ.३०) इति| तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघातिभेषजाभिधायिचतुष्केऽभिधातव्ये निखिलतन्त्रबीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्त्यङ्गप्रयोजनवदायुर्वेदागमादेरभिधायकं दीर्घञ्जीवितीयमध्यायमभिधातुमारब्धवान्| श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसम्बन्धोपदर्शकं श्रोतृबुद्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदमष्टसङ्ख्याया मङ्गलत्वेनादौ सूत्रं निवेशितवान्- अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति| यतो निरभिधेये कचटतपादौ साभिधेये वा निष्प्रयोजने काकदन्तपरीक्षादौ प्रेक्षावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजने अभिधातव्ये| यदुक्तं- “अभिधेयफलज्ञानविरहस्तिमितोद्यमाः| श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः” इति| अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थं चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः सम्बन्धः, प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः| तत्रेहाभिधेयं हिताहितादिरूपेणायुः| वक्ष्यति हि- “हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्| मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते” (सू. अ.३०) इति| अत्र च सर्वाभिधेयावरोधो यथास्थानमेव व्याकरणीयः| प्रयोजनं च धातुसाम्यम्| यथोक्तं- “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू. अ.१) इति| सम्बन्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरव्यापारस्य साध्यसाधनभावलक्षणः| तदेतत्सर्वं दीर्घञ्जीवितीयमित्यनेन पदेन दीर्घञ्जीवितशब्दमधिकृत्य [७] कृतप्रयोजनाभिधायक ‘धातुसाम्यक्रिया चोक्ता’ इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्| ननु, प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं, यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं, विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु [८] प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात्| अथ मन्यसे, आप्तप्रयोजनाभिधानमेतदतोऽत्र [९] यथार्थत्वं; ननु भो कथमयं प्रयोजनाभिधायी आप्तः? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत्, हन्त न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिर्न तावच्छास्त्रस्य यथार्थत्वावधारणं, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते, आप्तत्वानवधृतौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते [१०] ; अथ मन्यसे, मा भवतु प्रयोजनवत्तावधारणम्, अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिरर्थसन्देहादेव; नहि तत्र कृषीवलानां फललाभावधारणं विद्यते, अन्तराऽवग्रहादेरपि सम्भाव्यमानत्वात्; नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु, तथाऽप्यलं प्रयोजनाभिधानेन| नैवं, नहि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाऽभिप्रेतप्रयोजनविशेषविषयः सन्देहः; अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवधृताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमाकारविशेषसन्देहोत्पादनार्थं प्रयोजनविशेषाभिधानं; ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानम्| प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे| तदेवं यदुच्यते- ‘प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं, तथा चानवस्था’ इति, तन्निरस्तं भवति| अथेत्यादिसूत्रेऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्वल्पायुर्मेधसामर्थानवधारणस्य, तथाऽभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम्| ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोतॄणामविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम्| अथशब्दस्य मङ्गलत्वे स्मृतिः- “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा| कण्ठं [११] भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ” इति| शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः| यथा- “अथ शब्दानुशासनम्” (व्या. म. भा. अ. १ पा. १ आ. १), “अथातो धर्मं व्याख्यास्यामः” (वै . अ.१आ.१सू.१) इत्यादौ| अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च [१२] ; तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम्| यथा च गुर्वाज्ञालाभानन्तरमेतत्तन्त्रकरणं तथा “अथ मैत्रीपरः पुण्यम्” (सू. अ. १) इत्यादौ स्फुटमेव| ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति| यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वमथशब्दस्य वर्ण्यते तन्न मां धिनोति, नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते; श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं, न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति| अतः शब्दोऽधिकारप्रागवध्युपदर्शकः, अत ऊर्ध्वं यदुपदेक्ष्यामो दीर्घञ्जीवितीयं तदिति; यदि वा हेतौ, येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्सम्बन्धत्वमिव [१३] , अतो हेतोर्दीर्घञ्जीवितीयं व्याख्यास्याम इति योजनीयम्| दीर्घञ्जीवितीयमित्यत्र दीर्घञ्जीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे “अध्यायानुवाकयोर्लुक् च” (पा. अ. ५/२/६०) इति छप्रत्ययः| यदि वा दीर्घञ्जीवितशब्दमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा, इत्यस्यां विवक्षायाम् “अधिकृत्य कृते ग्रन्थे” (पा. अ. ४/३/८७) इत्यधिकारात् “शिशुक्रन्दयमसभ” (पा. अ. ४/३/८८) इत्यादिना छः| एवमन्यत्राप्येवञ्जातीये मन्तव्यम्| अत्र च सत्यपि शब्दान्तरे दीर्घञ्जीवितशब्देनैव सञ्ज्ञा कृता, दीर्घञ्जीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च| ‘दीर्घञ्जीवितशब्दोऽस्मिन्नस्ति’ इति, दीर्घञ्जीवितशब्दमधिकृत्य कृतो वा, इत्यनया व्युत्पत्त्या दीर्घञ्जीवितीयशब्दस्तन्त्रेऽध्याये च प्रवर्तनीयः| तेन दीर्घञ्जीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं [१४] प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनर्दीर्घञ्जीवितीयमिति पदमावर्त्याध्यायपदसमभिव्याहृतमध्यायव्याख्यानप्रतिज्ञां लम्भयति| दृष्टं चावृत्य पदस्य योजनं, यथा- अपामार्गतण्डुलीये “गौरवे शिरसः शूले पीनसे” (सू. अ. २) इत्यादौ ‘शिरस’ इति पदं ‘गौरवे’ इत्यनेन युज्यते, आवृत्य ‘शूले’ इत्यनेन च| अतश्च यदुच्यते- अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति, तन्निरस्तं भवति| यदि वा, अध्यायप्रतिज्ञैवास्तु, तयैव तन्त्रप्रतिज्ञाऽप्यर्थलब्धैव, न ह्यध्यायस्तन्त्रव्यतिरिक्तः, तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव; यथा- अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति| अवयवान्तरव्याख्यानप्रतिज्ञा तु [१५] न लभ्यते, तां तु प्रत्यध्यायमेव करिष्यति| अध्यायमिति अधिपूर्वादिङः “इङश्च” (पा. अ. २/४/४७) इति कर्मणि घञा साध्यम्| तेन अधीयते [१६] इत्यध्यायः| न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः, यतो योगरूढेयमध्यायसञ्ज्ञाऽध्यायस्य प्रकरणसमूहविशेष एव दीर्घञ्जीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते| वक्ष्यति हि- “अधिकृत्येयमध्यायनामसञ्ज्ञा प्रतिष्ठिता” (सू. अ. ३०) इति; नामसञ्ज्ञा योगरूढसञ्ज्ञेत्यर्थः| यदि वा करणाधिकरणयोरर्थयोः “अध्यायन्यायोद्यावसंहाराश्च” (पा. अ. ३/३/११२) इतिसूत्रेण निपातनादध्यायपदसिद्धिः| अधीयतेऽस्मिन्ननेन वाऽर्थविशेष इत्यध्यायः| अतिप्रसक्तिनिषेधस्तूक्तन्यायः| व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेर्लृटा साध्यम्| चक्षिङो हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन “स्वरितञित” (पा. अ. १/३/७२) इत्यादिनाऽऽत्मनेपदं स्यादिति| ‘वि’ इति विशेषे, विशेषाश्च व्याससमासादयः| आङयं क्रियायोगे, ये तु मर्यादायामभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषामभिप्रायं न विद्मः| यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात्; यथा- “आसमुद्रक्षितीशानां” (र. वं. अ. १) “आपाटलीपुत्राद्वृष्टो देव” इत्यादौ, इहापि च तथा| क्रियायोगविरहे “उपसर्गाः क्रियायोगे” (पा. अ. १/४/५९) इति नियमादाङ उपसर्गत्वं न स्यात्; ततश्चानुपसर्गेणाङा व्यवधानाद् वेरुपसर्गस्य प्रयोगो न स्यात्| येनाव्यवहितः सजातीयव्यवहितो वा धातोरुपसर्गो भवति| व्याङोरुभयोरप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात्; तस्मात् क्रियायोगित्वमेवाङो न्याय्यम्| अथ, अतः, दीर्घं, जीवितीयम्, अध्यायं, वि, आ, ख्यास्याम इत्यष्टपदत्वम्||१||

Leave a Reply

Your email address will not be published. Required fields are marked *

Share this Doc

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः – सूत्र 1

Or copy link

    अस्मिन् पत्रे
    Scroll to Top

    Subscribe

    ×
    Cancel